Follow us for Latest Update

नित्य पूजन में पाठ करने योग्य गणपति व् सर्व देव स्मरण ।

इसके वाचिक पाठ करना चाहिए इससे जीवन में सकारात्मकता बढ़ता है।

इसको कंठश्थ कर लेना चाहिए ।

           ॥ गणपति स्मरण ॥

सुमुखश्चेकदंतश्च कपिलो गजकर्णक: । लम्बोदरश्च विकटो विघ्ननाशो विनायक: ॥
धुम्रकेतुर्गणाध्यक्षो भालचंद्रो गजानन: । द्वादशैतानि नामानि य: पठेच्छृणुयादपि ॥
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा । संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजं । प्रसन्नवदनं ध्यायेत सर्वविघ्नोपशांतये ॥
अभिप्सितार्थं सिद्धयर्थं पूजितो य: सुरासुरै: । सर्व विघ्नहरस्तस्मै: गणाधिपतये नम: ॥
सर्वमंगल मांगल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरी नारायणी नमोSस्तु ते ॥
मंगलं भगवान विष्णु: मंगलं गरुणध्वज: । मंगलं पुण्डरीकाक्षं मंगलायतनो हरी: ॥
सर्वदा सर्व कार्येषु नास्ति तेषाममंगलं । येषां हृदिस्थो भगवान मंगलायतनो हरि: ॥
तदैव लग्नं सुदिनं तदैव ताराबलं चंद्रबलं तदैव विद्याबलं दैवबलं तदैव । तदैव लक्ष्मीपतेस्तेऽनङ्घ्रियुगस्मरामी ॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजय: । येषामिंदीवरश्यानो हृदयस्थो जनार्दन: ॥
यत्र योगेश्वर: कृष्णो यत्र पार्थो धनुर्धर: । तत्र श्रीर्विजयोभूतिर्ध्रुवा नीतिर्मतिर्मम ॥
सर्वेस्वारम्भकार्येषु देवास्त्रिभुवनेश्वरा: । देवा: दिशंतु न: सिद्धिं ब्रह्मेशानमहेश्वरा: ॥
विनायकं गुरुं भानुं ब्रह्मविष्णुमहेश्वरान । सरस्वतीं प्रणौम्यादौ सर्वकार्यार्थसिद्धये ॥
विश्वेशं माधवं ढुण्डिं दण्डपाणिं च भैरवं । वंदे काशीं गुहां गंगां भवानीं मणिकर्णिकां ॥
वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ: । निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥

ॐ सिद्धि बुद्धि शुभ लाभ सहिताय श्रीमन् महागणाधिपतये नम: ।
ॐ लक्ष्मी नारायणाभ्यां नम: । ॐ उमा महेश्वराभ्यां नम: ।
ॐ वाणी हिरण्यगर्भाभ्यां नम: । ॐ शचि पुरंदराभ्यां नम: ।
ॐ इष्ट देवताभ्यो नम: । ॐ कुल देवताभ्यो नम: ।
ॐ स्थान देवताभ्यो नम: । ॐ वास्तु देवताभ्यो नम: ।
ॐ ग्राम देवताभ्यो नम: । ॐ मातृपितृ चरणकमलेभ्यो नम: ।
ॐ सर्वेभ्यो देवेभ्यो नम: । ॐ सर्वेभ्यो देवे शक्तिभ्यो नम: ।
ॐ सर्वेभ्यो आदित्येभ्यो नम: । ॐ सर्वेभ्यो तिर्थेभ्यो नम: ।
ॐ सर्वेभ्यो ब्राह्मणेभ्यो नम: ।  ॐ एतत्कर्म प्रधान देवताय नम: ।

0 comments:

Post a Comment