वन्दे राधापदाम्भोजं ब्रह्मादिसुरवन्दितम् यत्कीर्तिकीर्तनेनैव पुनाति भुवनत्रयम् ॥
नमो गोलोकवासिन्यै राधिकयै नमो नमः शतश्रृङ्गनिवासिन्यै चन्द्रवत्यै नमो नमः ॥
तुलसीवनवासिन्यै वृन्दारण्यै नमो नमः रासमण्डलवासिन्यै रासेश्वर्यै नमो नमः ॥
विरजातीरवासिन्यै वृन्दायै च नमो नमः ।
वृन्दावनविलासिन्यै कृष्णायै च नमो नमः ॥
नमः कृष्णप्रियायै च शान्तायै च नमो नमः ।
कृष्णवक्षः स्थितायै च तत्प्रियायै नमो नमः ॥
नमो वैकुण्ठवासिन्यै महालक्ष्म्ये नमो नमः ।
विद्याधिष्ठातृदेव्यै च सरस्वत्यै नमो नमः ॥
सर्वैश्वर्याधिदेव्यै च कमलायै नमो नमः ।
पद्मनाभप्रियायै च पद्मायै च नमो नमः ॥
महाविष्णोश्च मात्रे च पराद्यायै नमो नमः ।
नमः सिन्धुसुतायै च मर्त्यलक्ष्म्यै नमो नमः ॥
नारायणप्रियायै च नारायण्यै नमो नमः ।
नमोऽस्तु विष्णुमायायै वैष्णव्यै च नमो नमः ॥
महामायास्वरूपायै सम्पदायै नमो नमः ।
नमः कल्याणरूपिण्यै शुभायै च नमो नमः ॥
मात्रे चतुर्णा वेदानां सावित्र्यै च नमो नमः ।
नमो दुर्गविनाशिन्यै दुर्गादेव्यै नमो नमः ॥
तेजत्सु सर्वदेवानां पुरा कृतयुगे मुदा ।
अधिष्ठानकृतायै च प्रकृत्यै च नमो नमः ॥
नमस्त्रिपुरहारिण्यै त्रिपुरायै नमो नमः ।
सुन्दरीषु च रम्यायै निर्गुणायै नमो नमः ॥
नमो निद्रास्वरूपायै निर्गुणायै नमो नमः ।
नमो दक्षसुतायै च नमः सत्यै नमो नमः ॥
नमः शैलसुतायै च पार्वत्यै च नमो नमः ।
नमो नमस्तपरिवन्यै ह्युमायै च नमो नमः ॥
निराहारस्वरूपायै ह्यपर्णायै नमो नमः ।
गौरीलोकविलासिन्यै नमो गौयै नमो नमः ॥
नमः कैलासवासिन्यै माहेश्वर्यै नमो नमः ।
निद्रायै च दयायै च श्रृद्धायै च नमो नमः ॥
नमो धृत्यै क्षमायै च लज्जायै च नमो नमः ।
तृष्णायै क्षुत्स्वरूपायै स्थितिकर्यै नमो नमः ॥
नमः संहाररूपिण्यै महाभायै नमो नमः ।
भयायै चाभयायै च मुक्तिदायै नमो नमः ॥
नमः स्वधायै स्वाहायै शान्त्यै कान्त्यै नमो नमः ।
नमस्तुष्टयै च पुष्टयै च दयायै च नमो नमः ॥
नमो निद्रास्वरूपायै श्रृद्धायै च नमो नमः ।
क्षुत्पिपासास्वरूपायै लज्जायै च नमो नमः ॥
नमो धृत्यै क्षमायै च चेतनायै नमो नमः ।
सर्वशक्तिस्वरूपिण्यै सर्वमात्रे नमो नमः ॥
अन्नो दाहस्वरूपायै भद्रायै च नमो नमः ।
शोभायै पूर्णचन्द्रे च शरत्पद्ये नमो नमः ॥
नास्ति भेदो यथा देवि दुग्धधावल्ययोः सदा ।
यथैव गन्धभूम्योश्च यथैव जलशैत्ययोः ॥
यथैव शब्दनभसोर्ज्योतिः सूर्यकयोर्यथा ।
लोके वेदे पुराणे च राधामाधवयोस्तथा ॥
चेतनं कुरु कल्याणि देहि मामुत्तरं सति ।
इत्युक्त्वा चोद्धवस्तत्र प्रणनाम पुनः पुनः ॥
इत्युद्धवकृतं स्तोत्रं यः पठेद् भक्तिपूर्वकम् ।
इह लोके सुखं भुक्त्वा यात्यन्ते हरिमन्दिरम् ॥
न भवेद् बन्धुविच्छेदो रोगः शोकः सुदारुणः।
प्रोषिता स्त्री लभेत् कान्तं भार्यामेदी लभेत् प्रियाम्॥
अपुत्रों लभते पुत्रान् निर्धनो लभते धनम् ।
निर्मूमिर्लभते भूमि प्रजाहीनो लभेत् प्रजाम् ॥
रोगाद् विमुच्यते रोगी बद्धो मुच्येत बन्धनात् ।
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ॥
अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः ॥
पाठ फल श्रुती -
जो उद्धव के द्वारा बनाया गया इस स्तोत्र का भक्ति पूर्ण पाठ करता है इस लोक में सुख भोगने के बाद वह हरि के मंदिर में जाता है। उसके मित्र उसका त्याग नहीं करते हैं और ना ही उसे दारुण रोग शोक होता है। वह जिस स्त्री को चाहता है वह उसे प्राप्त होती है और वह उससे अत्यंत प्रेम करने वाली होती है। जिसके पुत्र नहीं होते उसे पुत्र की प्राप्ति होती है। निर्धन को धन प्राप्त होता है जिसके पास भूमि ना हो उसे भूमि की प्राप्ति होती है। प्रजा हीन राजा को प्रजा मिलती है रोगी को रोग से मुक्ति मिलती है जो कारागृह में बंदी है उसे बंधन मुक्ति मिलती है। और उसको बहुत ज्यादा सुयश कृति प्राप्त होती है। जो मूर्ख होता है वह इसके पाठ से पंडित हो जाता है।